Varna Varnanam


वर्णवर्णनम् - Description of the Social Order | Samskrta Budbudaa
वर्णवर्णनम्
Varna Varnanam — Description of the Social Order
A Sanskrit composition describing the traditional social order (varna system) with invocations to the divine, praise of teachers, rulers, warriors, merchants, and artisans — celebrating the ideal of each contributing to society's wellbeing through their respective vocations.
❀ ❀ ❀
जयत्वघं विनाश्य देवि देहि दिव्य दर्शनम् भारति त्वमेव भास्कराभमण्डलप्रभा रतिं तु संस्कृते विराजिते विधत्स्व वेधसा दया च दीयतां दयालुनानुकम्पया सदा ।१
प्रार्थयामि शम्भुमीश्वरं कृपाकरं विभुम् प्रार्थयामि पार्वतीशसूनुषण्मुखं रविम् प्रार्थयामि वासवं च वासुदेवराघवौ प्रार्थयामि मासरस्वतीशहृत् सुतोषिणीम् ।२
कति प्रधीसुधीदधि प्रमन्थनाद् विवेचनात् कियन् नवीननीतम् आजनि क्षितिक्षुधं दहत् देशिका महात्मनां समाहृतिः सुगौरवान्- वितो गुरुर् बभूव जज्ञिरे मुनिर् ऋषिर् बुधाः।३
वेद वेधसा विसृष्टमेतदभ्र भूतलम् वेदवेद्यजातवेदसं विविक्तुम् अन्तरम् ज्ञानविज्ञविद्यया त्वविद्यया विजानता मानुषेण नम्रचित्तकेन केन बुध्यते ।४
क्षितिं महीक्षितः प्रशासनात् प्रशस्तशासकाः स्वधर्मरक्षणे च शिष्टपालने नियामिनः । दुष्टदूषणान् अतिक्रमान् अतीव बाधकान् पीडकांश्च हिंसकान् विदारयन्तु राक्षसान् ।५
शिवाजि तेजबाहुदुर् अशोक शोकनाशनाः चन्द्र गुप्त मौर्य चोळ राज राज पूरवः । कृष्णराय वोडयर् च विष्णुवर्धनो रणा प्रतापसिंह विक्रमादितेय पूलकेशिनः ।६
झाञ्सि राणि चेन्नमा च ओबव्वा च अब्बका रुद्रमा च वेळु नाचियर् तु तारबाय् । महादिवा अवन्तिभाय् उदादिवा च माभगो मल्लमा अहल्यदेवि देवनाः किमङ्गनाः ।।७
पद्मजाकृपाकटाक्षवीक्षणानुविद्धवैश्- -यस्य यस्य हेमहर्म्यहार एव हीयते । सम्पदं नियुज्य राष्ट्रभक्तिभावनाधृता विक्रयः क्रियेत विक्रमस्व हैधयार्यताम् ।८
भृत्यदाससेवकः कलाशिलाविलासिकः देशसेवनाभरण्यभुग् भवेत्तु शूद्रकः । समाजपूरुषस्य पादवत्प्रधानधारकः धारया तनोतु मङ्गलं गिरं गले गिलिम् ।९
भारती तनोतु मङ्गलं गिरं गले गिलिम् शङ्करी तनोतु मङ्गलं गिरं गले गिलिम् इन्दिरा तनोतु मङ्गलं गिरं गले गिलिम् इदं हि वर्णवर्णनं समर्पयामि शम्भवे ।१०
✦ ✦ ✦

No comments:

Post a Comment

Share your thoughts with us! You are most certainly free to disagree!