Dawn Crow


प्रभातकाकः - The Dawn Crow | Samskrta Budbudaa
प्रभातकाकः
Prabhaata Kaakah — The Dawn Crow
An allegorical epic poem about the crow that caws at dawn — though mocked by those who prefer the cuckoo's song, the crow becomes the catalyst for an extraordinary tale. When celestial beings face a crisis, they seek Lord Shiva's help. What follows is a divine intervention involving Agni, Indra, Vayu, and ultimately the ocean itself, all set in motion by the persistent dawn crow. This masterpiece blends mythology, metaphor, and social commentary in classic Sanskrit verse.
❀ ❀ ❀
अवेहि काकः कुवते कुशीलः उच्चैस्तरोsसाव् उषसां प्रभाते कुरूपिणः कोकिलकूजनस्य विद्वेषिणः सन्ति विचारमूढाः
।१
सुशान्तियुक्ते जलधौ विकारः जायेत वा कश्चन कम्पनं वा । तथा विचिन्त्य प्रतिभाति कश्चित् उपाय एवं करणीय एव
।२
पार्श्वस्थभूमेर् मरुभूप्रदेशात् समाह्वयन्त्युष्ट्रकरिग्रहादीन् नैकत्र संस्थाप्य पदातिसैन्यं तीरस्य चाष्टासु च दिक्षु चेष्टाः
।३
यथा पुरा बाढसुरासुराणां सुधासमासादनतत्पराणाम् हालाहलोsजायत कण्टकः सन् अतो विवादेष्वपरो विजेता
।।४
सुरां पिबन्तः स्ववसादवासान् रक्षन्त एवेम इयेषुरोजः । रक्षोगणक्रान्तसुराज्यराजाः आज्यादितर्पार्पणमिष्टवन्तः
।।५
मास्मैव भून् मा च परस्परं स्मो दस्यूपहासाय वयं विवीर्याः । अन्योन्यसाहाय्यमभीप्सितं तत् प्साता भवामो यदि नो विधाय
।६
रक्ष्यामहै हे प्रभुभूतनाथ त्वयाधुना राक्षसपीडिताः स्मः । रक्षोघ्नहोमं , निर्वर्तयध्वम् बभाष ईशान निमीलिताक्षः
।।७
प्रभातकाले कटुकुक्कुटेशाः प्रभावितास् ते प्रभवन्ति वामाः । उष्ट्रा अजा कीटकसैकतेशाः तेsप्यत्र भागं ह्यभिकाङ्क्षमाणाः
।८
कपोतमार्जालमिव स्ववैरं स्वैरं चरन्तः परितर्पणार्थम् शृगालजाता मृगतृष्णिकापि कीलालिनः कैतववन्त एते
।९
कालाः कुकाकाः क्रकचेन काचं यथा भनक्ति क्षणमात्रकाले तथा विचारं कृतवन्त एते धीराब्धिमेव प्रविभङ्क्तुकामाः
।१०
विदर्भदेशाद्धि विदग्धकेशाः समागताः सागरमेव दग्धुम् । सहस्रयोनिं स सहस्रनेत्रः नृत्येन तृप्यन् निह हाह्वयन् ह.
।१२
अग्निं शिखेशं ह्यजवाहनं रं शक्रं सुरेशं गजवाहनं लम् कारुण्यरूपं जलमावहन्तम् तडिज्ज्वलैस् तापयितुं समाह्वन्
/१३
दहन्तु सर्वं जलराशिमेतम् यत्रास्ति यत् तत्र तु तोयबिन्दुः । वज्रैः प्लुषेन्द्र द्रवम् उच्छिनत्तु । अग्ने ग्रणीस् त्रासय तापनेन
।१४
नैकः कणः स्यान् ननु बिन्दुशेषः अशेषतः प्रोषय रोषरोमन्। विस्फारयात्राब्धिम् उ सर्वभक्ष विक्षोभय क्षोभणवीक्षदक्ष
।।१५
वयं तु पाराद्बहिरास्थिताः स्मः यं कञ्चिदम्भोधिजबिन्दुफेनम् । पक्षैर् दिशामो दिशि पारणायाः । व्यात्तैस् त्वदीयैर् अभिभक्षय स्राक्
।।१६
तदाम्बुधिस् तद् विचिकित्समानः समानतन्त्रं व्यचिचिन्तदेषः । दिवाकरं कारुण कर्णतातं नतोत्तमाङ्गोsङ्ग विनीतियुक्तः
।१७
अथेश्वरं चापि मरुद्गणेशं गणेशतातं किल चन्द्रमौलिम् अवाङ्मुखोsश्र्वावृतलोचनोsसौ असूनयाचच्छिवसूनुमीशम्
।।१८
तथाहवेsभूद्धववाहनश्च शचीधवश्चाप्यशुषत् व्युषन् मे- ति प्रार्थयन्तं मातातम् उग्रो मह्यं कुतः कुप्यसि माततायिन्
//१९
प्रार्थयामि प्रभो योगिन् शतकृत्वः शतक्रतुम् तथापि न स तृप्येत दर्शयस्वमुमापते
।।२०
कृता सपर्या सरसाम्पते सा मा भीर् भवेत् ते विजितेन्द्रियस्य जेष्यामि शक्रं सपुरं दृणामि खगांश्च सर्वांस्तव शत्रुशेषान्
।२१
स्तवैर्न हृष्येन् न च निन्दिताभिः नो वोद्विजेच् चेन् मम भक्तियुक्तः तं तारयामि क्षरणाद् अमूं वा अक्षय्यपदवीमनुगृह्य दद्याम्
। २२
इन्द्रेsर्भकेsग्नौ रुवति क्रमेण सूर्यः प्रचाकाश्यत आनभोभु । अथान्धितौ तौ परितः प्रकाशात् वायुर् ह्यवाद् भीकरम् आरुवन् सः
।२७
चण्डाः प्रचण्डमरुतः खविनादयन्तः खगादिदस्यून् प्रविचाल्य नुत्त्वा अब्धेर् लहर्यां परिमज्जितास् ते उल्लोलकल्लोलविलासितं तत्
/२८
ततो विधुः शेखरभूत इन्दुः हिमांशुभिः श्यायितवान् समुद्रम् । इन्द्राग्निदेवौ कुपिताव् अनक्षौ हताधराव् ऊषतुरेव सर्वान्
/२९
जलं यथापूर्वम् उ विद्रवद् द्राक् वयो यथापूर्वम् उ चूर्यमाणाः । शक्रस्य वह्नेश्च चुकुण्ड आस्यम् स्युर् भस्मभूता ह ममण्डिरे ते
/३०
समुद्रराजोsतिसुनीतियुक्तः ववन्द ईशं करुणाकरं तम् धर्मज्ञ-धर्मिष्ठ-धुरन्धरोsजम् बंहिष्ठपाप्मस्वविचालितोsयम्
। ३१
धूपायितःकाकविहङ्गकायः सरित्पतेः शीतलवारिराशौ आलिङ्गिते संस्तृतसर्वतो वे निर्वाणम् आपुः परमं प्रशान्तम्
।। ३२
✦ ✦ ✦
।। श्रीगुरुचरणारविन्दापर्णमस्तु ।।

No comments:

Post a Comment

Share your thoughts with us! You are most certainly free to disagree!