नाटकम्
Naatakam — Skit: A Reunion of Two Friends
द्वयोर् मित्रयोः सत्सङ्गः
A humorous Sanskrit skit depicting the reunion of two friends, Darshana and Sudarshana, after twenty long years. What begins as a heartfelt catching-up session soon reveals the trials and tribulations of married life, noisy neighbors, and the ironies of fate — culminating in a surprising twist that brings laughter and nostalgia together.
❀ ❀ ❀
दर्शना — द सुदर्शनः — सु
बहुभ्यो वर्षेभ्यः मिलितौ स्नेहितौ ।
(Two friends meeting after many years.)
बहुभ्यो वर्षेभ्यः मिलितौ स्नेहितौ ।
(Two friends meeting after many years.)
◆ ◆ ◆
द —
अहो मित्र सुदर्शन । नमस्ते भोः । कथमसि .२०वर्षेभ्यः मिलितः । कुशली अ......
सु —
आम् आम् । मम सौख्यं देवेनापि बाधितुम् अशक्यम् । त्वम् कथम् असि ?
द —
एवम् । शृणु । अहमपि कुशलिनी एव । किन्तु यावत् त्वम् सुखी तावत् नास्मि ।
सु —
किमर्थम्
द —
यतः मम विवाहः जातः । तर्हि सुखलेशोपि न कस्याश्चित् दिशः आगच्छति मां प्रति । उक्तं खलु भजगोविन्दस्तोत्रे
अर्थम् अनर्थं भावय नित्यम्
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ।।
अर्थम् अनर्थं भावय नित्यम्
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ।।
सु —
किन्तु अर्थः अनर्थः इत्युक्तः । विवाहात् किम् ?
द —
इदानीं मम श्वश्रूः सम्प्राप्ते सन्निहिते काले अस्ति । तर्हि तां रक्षितुम् पुत्राः आगच्छन्ति । देशविदेशेभ्यः ।
सु —
हन्त । कियद् भाग्यवती अस्ति श्वश्रूः । पुत्राणामपि मातृभक्तिः साधिष्ठा ।
द —
हहःहः । धर्मव्याजाः दम्भाः ते । यदा रोगपीडिता आसीत् चिरं तदा केनापि पुत्र मक्षिकेणापि न आगतम् । कुशलं न पृष्टम् । सद्यस्तु श्रुत्वा वार्तां झटिति प्रत्यागताः ।
सु —
दुर्दैवम् । किन्तु कुतः चिन्ता । भवती आस्तिका खलु । तर्हि आस्ति पास्ति लभ्यते ।
द —
प्रायः । सिंहे मार्गितमृगभक्षितुकामे शृगालाः सर्वतः आयन्ति । किमहो लोकः । किमहहा संसारः । हा विधिम् ।
सु —
अस्तु तथा । अधुना कुतः स विषविषयः । मास्तु । ममापि कथां शृणु ।
द —
तवाप्यस्ति वा
सु —
तवसप्यस्ति ममाप्यस्ति । मम गृहस्य पार्श्वस्थः महान् कोलाहलप्रियः ।तत्र ये ये जनाः भवन्ति , ते सर्वे पि उच्चैः क्रोशन्ति । क्रोष्टारोपि तथा न क्रोशन्ति । अल्पकलहविशेषमपि बृंहयन्ति । तत्र विवादः कः । चर्चा कः इति सर्वं ज्ञायते ।
द —
एवं वा
सु —
आम् आम् । तत्र सर्वं सुस्पष्टं श्रूयते । यथा — रे अभिषेक ! आगच्छ । हे मातः काफीं देहि । शालां गच्छ । भुङ्क्ष्व शीघ्रम् । इति
द —
अरे । किमाश्चर्यम् । मम पार्श्वस्थोपि तथैव बाधकः । तत्र बालकाः सा री ग मा पा दा नी सा इति कुगीतं गायन्ति । इह गृहे सङ्गीतपाठः भवति । तत्र शिक्षकः पाठयति चेत् अत्रैव श्रोतुं शक्यते । अत्रैव मम बालाः बोधन्ति । तेपि किञ्चित् किञ्चित् कर्कशगीते रुचिमन्तः भवन्तः सन्ति । एकः कार्यक्रमो भवतु नाम । ते कुटुम्बिनः द्यावापृथिवीम् एव तुमुलो घोषन्ति ।
सु —
पाप ! धिक् विधिम् । धिक् ललाटलिखितम् ।
द —
अस्तु । इदानीं कुत्र वससि । किं करोषि । कः उद्योगः ।किञ्चित् वदतु ।
सु —
अहं तन्त्रज्ञः । प्रबन्धकः । अहं विजयनगरे वसामि ।
द —
अस्तु अस्तु ।किञ्चित् वदतु इति उक्तवती । शृणु । अहमपि प्रबन्धिका । वित्तालये महत् वेतनम् उपभुञ्जे ।
सु —
अहमपि तत्रैव समीपे वसामि ।
सु द — (एकस्वरे) पूर्णं सङ्केतं वद
(#19 / #20). 1st cross 1st main RGF layout Girinagar Bengaluru, Karnataka, Bharata, Bhoomi, Solar System, Milky Way, Universe.
(Astonished, they point at each other...)
सु — अरे 19! द — अरे 20!
Both blush and smashing and banging their heads against the nearest wall, they shy away.
✦ ✦ ✦